Sukta 3.26
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥
वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् । सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥
vaiśvānaráṁ manasā́gníṁ ni-cā́yyā haviṣmánto anu-ṣatyáṁ svàr-vidam | su-dā́nuṁ deváṁ rathiráṁ vasū́yavo gī́rbhī raṇváṁ kuśikā́so havāmahe ||
We, bearers of the offering, contemplating with the mind, call the universal Fire, faithful to the truth of the movement, finder of the luminous world. Seeking the riches of being, the Kuśikas invoke with inspired words the god of good giving, swift in the march, delightful in his gladness.
वै॒श्वा॒न॒रम् । मन॑सा । अ॒ग्निम् । नि॒ऽचाय्य॑ । ह॒विष्म॑न्तः । अ॒नु॒ऽस॒त्यम् । स्वः॒ऽविद॑म् । सु॒ऽदानु॑म् । दे॒वम् । र॒थि॒रम् । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । र॒ण्वम् । कु॒शि॒कासः॑ । ह॒वा॒म॒हे॒ ॥वैश्वानरम् । मनसा । अग्निम् । निचाय्य । हविष्मन्तः । अनुसत्यम् । स्वःविदम् । सुदानुम् । देवम् । रथिरम् । वसुयवः । गीःभिः । रण्वम् । कुशिकासः । हवामहे ॥vaiśvānaram | manasā | agnim | ni-cāyya | haviṣmantaḥ | anu-ṣatyam | svaḥ-vidam | su-dānum | devam | rathiram | vasu-yavaḥ | gīḥ-bhiḥ | raṇvam | kuśikāsaḥ | havāmahe