Sukta 3.25
अग्निः सनोति वीर्याणि विद्वान्त्सनोति वाजममृताय भूषन् । स नो देवाँ एह वहा पुरुक्षो ॥
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् । स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥
agníḥ sanóti vīryā́ṇi vidvā́n sanóti vā́jam amṛ́tāya bhū́ṣan | sá no devā́n ā́ ihá vahā purukṣo ||
Agni, the knower, wins for us the heroic powers; he wins the vāja—plenitude of force—for the immortal widening, adorning it with his flame. Bring here to us the gods, O widely-dwelling one, and lead them into our field.
अ॒ग्निः । स॒नो॒ति॒ । वी॒र्या॑णि । वि॒द्वान् । स॒नोति॑ । वाज॑म् । अ॒मृता॑य । भूष॑न् । सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥अग्निः । सनोति । वीर्याणि । विद्वान् । सनोति । वाजम् । अमृताय । भूषन् । सः । नः । देवान् । आ । इह । वह । पुरुक्षो इति पुरुक्षो ॥agniḥ | sanoti | vīryāṇi | vidvān | sanoti | vājam | amṛtāya | bhūṣan | saḥ | naḥ | devān | ā | iha | vaha | purukṣo itipuru-kṣo