Sukta 3.25
अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः । ऋधग्देवाँ इह यजा चिकित्वः ॥
अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः । ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥
agne diváḥ sūnúr asi prá-cetās tanā́ pṛthivyā́ uta viśvá-vedāḥ | ṛ́dhag devā́n ihá yaja cikitvaḥ ||
O Agni, you are the son of Heaven, the foreknower; and by your body you are also of Earth, the knower of all. In your discerning wisdom, sacrifice here to the gods each in their right order and distinct power.
अग्ने॑ । दि॒वः । सू॒नुः । अ॒सि॒ । प्रऽचे॑ताः । तना॑ । पृ॒थि॒व्याः । उ॒त । वि॒श्वऽवे॑दाः । ऋध॑क् । दे॒वान् । इ॒ह । य॒ज॒ । चि॒कि॒त्वः॒ ॥अग्ने । दिवः । सूनुः । असि । प्रचेताः । तना । पृथिव्याः । उत । विश्ववेदाः । ऋधक् । देवान् । इह । यज । चिकित्वः ॥agne | divaḥ | sūnuḥ | asi | pra-cetāḥ | tanā | pṛthivyāḥ | uta | viśva-vedāḥ | ṛdhak | devān | iha | yaja | cikitvaḥ