Sukta 3.22
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये । या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥
अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये । या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑: ॥
agné divó arṇám ácchā jigāsy ácchā devā́m̐ ūciṣe dhíṣṇyā yé | yā́ rocáne parástāt sū́ryasya yā́ś cāvástād upatíṣṭhanta ā́paḥ ||
O Agni, you seek the flood of heaven; you call the gods who are the true seats of power. The waters that stand in the luminous realm beyond the Sun, and those that stand below—may they support the ascent and the descent of illumination in us.
अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्या॑ । ये । या । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥अग्ने । दिवः । अर्णम् । अच्छ । जिगासि । अच्छ । देवान् । ऊचिषे । धिष्ण्या । ये । या । रोचने । परस्तात् । सूर्यस्य । याः । च । अवस्तात् । उपतिष्ठन्ते । आपः ॥agne | divaḥ | arṇam | accha | jigāsi | accha | devān | ūciṣe | dhiṣṇyā | ye | yā | rocane | parastāt | sūryasya | yāḥ | ca | avastāt | upa-tiṣṭhante | āpaḥ