Sukta 3.22
अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र । येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥
अग्ने॒ यत्ते॑ दि॒वि वर्च॑: पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑: ॥
agné yát te diví várcaḥ pṛthivyā́ṃ yád óṣadhīṣv apsv ā́ yajatra | yéna antárikṣam urvā́ ātátantha tveṣáḥ sá bhānúr arṇavó nṛcákṣāḥ ||
O Agni, whatever is your shining in heaven, on earth, in the plants, and in the waters—O adorable—by which you have stretched the wide mid-world: that blazing radiance is an ocean with the vision of men; it opens sight in us toward the vast order.
अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ । येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्सु । आ । यजत्र । येन । अन्तरिक्षम् । उरु । आततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृचक्षाः ॥agne | yat | te | divi | varcaḥ | pṛthivyām | yat | oṣadhīṣu | ap-su | ā | yajatra | yena | antarikṣam | uru | ātatantha | tveṣaḥ | saḥ | bhānuḥ | arṇavaḥ | nṛ-cakṣāḥ