Sukta 3.22
अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः । सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः ॥
अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑: सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ॥
ayáṃ só agnír yásmint sómam índraḥ sutáṃ dadhé jaṭháre vāvaśānáḥ | sahasríṇaṃ vā́jam átyaṃ ná saptíṃ sasavā́nt sán stū́yase jātavedāḥ ||
This is that Agni in whom Indra has placed the pressed Soma within his belly, rejoicing. Having won the thousandfold plenitude of force—like a swift steed, like a coursing racer—you are praised, O Jātavedas, as the victorious carrier of the inner delight.
अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः । स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥अयम् । सः । अग्निः । यस्मिन् । सोमम् । इन्द्रः । सुतम् । दधे । जठरे । वावशानः । सहस्रिणम् । वाजम् । अत्यम् । न । सप्तिम् । ससवान् । सन् । स्तूयसे । जातवेदः ॥ayam | saḥ | agniḥ | yasmin | somam | indraḥ | sutam | dadhe | jaṭhare | vāvaśānaḥ | sahasriṇam | vājam | atyam | na | saptim | sasavān | san | stūyase | jāta-vedaḥ