Sukta 3.20
अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥
अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी॑नां दे॒व ऋ॑तु॒पा ऋ॒तावा॑ । स वृ॑त्र॒हा स॒नयो॑ वि॒श्ववे॑दा॒: पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त॑म् ॥
agnír netā́ bhága iva kṣitīnā́ṃ daivī́nāṃ devá ṛtu-pā́ ṛtā́vā | sá vṛtra-hā́ sanáyo viśva-vedā́ḥ párṣad viśvā́ ati duritā́ gṛṇántam ||
Agni is the leader, like Bhaga, of the divine peoples; a god guarding the seasons, founded in the Truth. He, the slayer of the coverer, the winner, the all-knower—may he carry across the one who chants, beyond all difficulties and wrong passages.
अ॒ग्निः । ने॒ता । भगः॑ऽइव । क्षि॒ती॒नाम् । दैवी॑नाम् । दे॒वः । ऋ॒तु॒ऽपाः । ऋ॒तऽवा॑ । सः । वृ॒त्र॒ऽहा । स॒नयः॑ । वि॒श्वऽवे॑दाः । पर्ष॑त् । विश्वा॑ । अति॑ । दुः॒ऽइ॒ता । गृ॒णन्त॑म् ॥अग्निः । नेता । भगःइव । क्षितीनाम् । दैवीनाम् । देवः । ऋतुपाः । ऋतवा । सः । वृत्रहा । सनयः । विश्ववेदाः । पर्षत् । विश्वा । अति । दुःइता । गृणन्तम् ॥agniḥ | netā | bhagaḥ-iva | kṣitīnām | daivīnām | devaḥ | ṛtu-pāḥ | ṛta-vā | saḥ | vṛtra-hā | sanayaḥ | viśva-vedāḥ | parṣat | viśvā | ati | duḥ-itā | gṛṇantam