Sukta 3.20
अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम । याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ । याश्च॑ मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ॥
agne bhūrī́ṇi táva jātavedo devá svadhāvo ’mṛ́tasya nā́ma | yā́ś ca māyā́ māyínāṃ viśvám-inva tvé pūrvī́ḥ sáṃdadhúḥ pṛṣṭabándho ||
O Agni Jātavedas, divine and self-powered, many are your names of immortality. And the manifold powers of formation—those of the formers who drive the whole—have from of old been harmonized in you, O knower who binds the worlds together.
अग्ने॑ । भूरी॑णि । तव॑ । जा॒त॒ऽवे॒दः॒ । देव॑ । स्व॒धा॒ऽवः॒ । अ॒मृत॑स्य । नाम॑ । याः । च॒ । मा॒या । मा॒यिना॑म् । वि॒श्व॒म्ऽइ॒न्व॒ । त्वे इति॑ । पू॒र्वीः । स॒म्ऽद॒धुः । पृ॒ष्ट॒ब॒न्धो॒ इति॑ पृष्टऽबन्धो ॥अग्ने । भूरीणि । तव । जातवेदः । देव । स्वधावः । अमृतस्य । नाम । याः । च । माया । मायिनाम् । विश्वम्इन्व । त्वे इति । पूर्वीः । सम्दधुः । पृष्टबन्धो इति पृष्टबन्धो ॥agne | bhūrīṇi | tava | jāta-vedaḥ | deva | svadhāvaḥ | amṛtasya | nāma | yāḥ | ca | māyā | māyinām | viśvam-inva | tve iti | pūrvīḥ | sam-dadhuḥ | pṛṣṭabandho itipṛṣṭa-bandho