Sukta 3.20
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒न्वो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ॥
agne trī́ te vā́jinā trī́ ṣadhásthā tisrás te jihvā́ ṛtajāta pūrvī́ḥ | tisrá u te tanvò devávātās tā́bhir naḥ pāhi gíro áprayucchan ||
O Agni, three are your powers of plenitude, three your seats of establishment; three are your tongues, born of the Truth, ancient in their working. Three too are your bodies moved by the gods’ breath; by these protect us—so that our words may not fail or fall away from the path.
अग्ने॑ । त्री । ते॒ । वा॒जि॑ना॑ । त्री । ष॒धऽस्था॑ । ति॒स्रः । ते॒ । जि॒ह्वाः । ऋ॒त॒ऽजा॒त॒ । पू॒र्वीः । ति॒स्रः । ऊँ॒ इति॑ । ते॒ । त॒न्वः॑ । दे॒वऽवा॑ताः । ताभिः॑ । नः॒ । पा॒हि॒ । गिरः॑ । अप्र॑ऽयुच्छन् ॥अग्ने । त्री । ते । वाजिना । त्री । षधस्था । तिस्रः । ते । जिह्वाः । ऋतजात । पूर्वीः । तिस्रः । ऊँ इति । ते । तन्वः । देववाताः । ताभिः । नः । पाहि । गिरः । अप्रयुच्छन् ॥agne | trī | te | vājinā | trī | ṣadha-sthā | tisraḥ | te | jihvāḥ | ṛta-jāta | pūrvīḥ | ti sraḥ | oṃ iti | te | tanvaḥ | deva-vātāḥ | tābhiḥ | naḥ | pāhi | giraḥ | apra-yucchan