Sukta 3.20
अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः । सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
अ॒ग्निमु॒षस॑म॒श्विना॑ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः । सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा॑वशा॒नाः ॥
agním uṣásam aśvínā dadhikrā́ṃ vyùṣṭiṣu havate váhnir ukthaíḥ | sujyótiṣo naḥ śṛṇvantu devā́ḥ sajóṣaso adhvaráṃ vāvaśānā́ḥ ||
At the breakings of dawn the carrier invokes with hymns Agni, Ushas, the Ashvins, and Dadhikrāvan. May the gods of good light hear us, consenting together, eager for the journey of sacrifice and its forward movement.
अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः । सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥अग्निम् । उषसम् । अश्विना । दधिक्राम् । विउष्टिषु । हवते । वह्निः । उक्थैः । सुज्योतिषः । नः । शृण्वन्तु । देवाः । सजोषसः । अध्वरम् । वावशानाः ॥agnim | uṣasam | aśvinā | dadhi-krām | vi-uṣṭiṣu | havate | vahniḥ | ukthaiḥ | su-jyotiṣaḥ | naḥ | śṛṇvantu | devāḥ | sa-joṣasaḥ | adhvaram | vāvaśānāḥ