Sukta 3.16
चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः । आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुव॑: । आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ॥
cakrír yó víśvā bhúvanā́bhí sāsahíś cakrír devéṣv ā́ dúvaḥ | ā́ devéṣu yátata ā́ su-vī́rya ā́ śáṃsa utá nṛṇā́m ||
He who has wrought and overpowered all the worlds—he has wrought service among the gods. Strive toward the gods, toward true hero-power, toward the inspired utterance, and also toward the acclaim of men.
चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ । आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥चक्रिः । यः । विश्वा । भुवना । अभि । ससहिः । चक्रिः । देवेषु । आ । दुवः । आ । देवेषु । यतते । आ । सुवीर्ये । आ । शंसे । उत । नृणाम् ॥cakriḥ | yaḥ | viśvā | bhuvanā | abhi | sasahiḥ | cakriḥ | deveṣu | ā | duvaḥ | ā | deveṣu | yatate | ā | su-vīrye | ā | śaṃse | uta | nṛṇām