Sukta 3.16
स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य । तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥
स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य । तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिण॑: ॥
sá tváṃ no rāyáḥ śiśīhi mī́ḍhvo agne su-vī́ryasya | tuví-dyumna várṣiṣṭhasya prajā́vato 'namī́vasya śuṣmíṇaḥ ||
Therefore, O Agni, bounteous one, sharpen for us the riches of true hero-power—abundant in splendour, most raining in increase—rich in progeny, free from harm, full of force.
सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः॑ । अ॒ग्ने॒ । सु॒ऽवीर्य॑स्य । तुवि॑ऽद्युम्न । वर्षि॑ष्ठस्य । प्र॒जाऽव॑तः । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥सः । त्वम् । नः । रायः । शिशीहि । मीढ्वः । अग्ने । सुवीर्यस्य । तुविद्युम्न । वर्षिष्ठस्य । प्रजावतः । अनमीवस्य । शुष्मिणः ॥saḥ | tvam | naḥ | rāyaḥ | śiśīhi | mīḍhavaḥ | agne | su-vīryasya | tuvi-dyumna | varṣiṣṭhasya | prajāvataḥ | anamīvasya | śuṣmiṇaḥ