Sukta 3.16
इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः । अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥
इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्राय॒: शेवृ॑धासः । अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥
imáṃ naro marutaḥ saścata vṛ́dhaṃ yásmin rāyáḥ śé-vṛdhāsaḥ | abhí yé sánti pṛ́tanāsu dū́ḍhyo viśvā́hā śátrum ādabhúḥ ||
O men, O Maruts, accompany this growing power in whom the riches are made to thrive. They who are firm in the battles—through all days they overpower the enemy.
इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः । अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥इमम् । नरः । मरुतः । सश्चत । वृधम् । यस्मिन् । रायः । शेवृधासः । अभि । ये । सन्ति । पृतनासु । दुःध्यः । विश्वाहा । शत्रुम् । आदभुः ॥imam | naraḥ | marutaḥ | saścata | vṛdham | yasmin | rāyaḥ | śe--vṛdhāsaḥ | abhi | ye | santi | pṛtanāsu | duḥ-dhyaḥ | viśvāhā | śatrum | ādabhuḥ