Sukta 3.15
अच्छिद्रा शर्म जरितः पुरूणि देवाँ अच्छा दीद्यानः सुमेधाः । रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥
अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या॑नः सुमे॒धाः । रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके॑ ॥
ácchidrā śárma jaritar purū́ṇi devā́m̐ ácchā dī́dyānaḥ su-medhā́ḥ | rátho ná sasnír abhí vakṣi vā́jam agne tváṃ rodasī naḥ su-méke ||
Unbroken shelters many, O singer; shining, with clear intelligence, go towards the gods. Like a chariot that runs its course, bear us to plenitude of force; O Agni, thou art for us the two worlds in a happy oneness.
अच्छि॑द्रा । शर्म॑ । ज॒रि॒त॒रिति॑ । पु॒रूणि॑ । दे॒वान् । अच्छ॑ । दीद्या॑नः । सु॒ऽमे॒धाः । रथः॑ । न । सस्निः॑ । अ॒भि । व॒क्षि॒ । वाज॑म् । अ॒ग्ने॒ । त्वम् । रोद॑सी॒ इति॑ । नः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ॥अच्छिद्रा । शर्म । जरितरिति । पुरूणि । देवान् । अच्छ । दीद्यानः । सुमेधाः । रथः । न । सस्निः । अभि । वक्षि । वाजम् । अग्ने । त्वम् । रोदसी इति । नः । सुमेके इति सुमेके ॥acchidrā | śarma | jaritariti | purūṇi | devān | accha | dīdyānaḥ | su-medhāḥ | rathaḥ | na | sasniḥ | abhi | vakṣi | vājam | agne | tvam | rodasī iti | naḥ | sumeke itisu-meke