Sukta 3.15
अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् । यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥
अषा॑ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वा॒: सौभ॑गा संजिगी॒वान् । य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ॥
aṣā́ḷho agne vṛṣabhó didīhi púro víśvāḥ sáubhagā saṃjigīvā́n | yajñásya netā́ prathamásya pāyór jā́tavedo bṛhatáḥ su-praṇīte ||
Invincible, O Agni, bull of force, blaze forth; conquer for us all the fronts of felicity. As leader of the sacrifice, guardian of its first foundation, O Jātavedas, guide us well into the Vast.
अषा॑ळ्हः । अ॒ग्ने॒ । वृ॒ष॒भः । दि॒दी॒हि॒ । पुरः॑ । विश्वाः॑ । सौभ॑गा । स॒म्ऽजि॒गी॒वान् । य॒ज्ञस्य॑ । ने॒ता । प्र॒थ॒मस्य॑ । पा॒योः । जात॑ऽवेदः । बृ॒ह॒तः । सु॒ऽप्र॒नी॒ते॒ ॥अषाळ्हः । अग्ने । वृषभः । दिदीहि । पुरः । विश्वाः । सौभगा । सम्जिगीवान् । यज्ञस्य । नेता । प्रथमस्य । पायोः । जातवेदः । बृहतः । सुप्रनीते ॥aṣāḷhaḥ | agne | vṛṣabhaḥ | didīhi | puraḥ | viśvāḥ | saubhagā | sam-jigīvān | yajñasya | netā | prathamasya | pāyoḥ | jāta-vedaḥ | bṛhataḥ | su-pranīte