Sukta 3.15
त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि । वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥
त्वं नृ॒चक्षा॑ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा॑हि । वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंह॑: कृ॒धी नो॑ रा॒य उ॒शिजो॑ यविष्ठ ॥
tvám nṛ-cákṣā vṛṣabhā́nu pūrvī́ḥ kṛṣṇā́sv agne aruṣó ví bhāhi | váso néṣi ca párṣi cā́ty áṃhaḥ kṛdhí no rāyá uśíjo yaviṣṭha ||
You, O Agni, who seest through the human, follow the ancient paths; blaze out as the Ruddy One amid the blackness. O Vasu, lead us and carry us beyond all anguish; fashion for us the riches of the seeker, O youngest and most swift in the sacrifice.
त्वम् । नृ॒ऽचक्षाः॑ । वृ॒ष॒भ॒ । अनु॑ । पू॒र्वीः । कृ॒ष्णासु॑ । अ॒ग्ने॒ । अ॒रु॒षः । वि । भा॒हि॒ । वसो॒ इति॑ । नेषि॑ । च॒ । पर्षि॑ । च॒ । अति॑ । अंहः॑ । कृ॒धि । नः॒ । रा॒ये । उ॒शिजः॑ । य॒वि॒ष्ठ॒ ॥त्वम् । नृचक्षाः । वृषभ । अनु । पूर्वीः । कृष्णासु । अग्ने । अरुषः । वि । भाहि । वसो इति । नेषि । च । पर्षि । च । अति । अंहः । कृधि । नः । राये । उशिजः । यविष्ठ ॥tvam | nṛ-cakṣāḥ | vṛṣabha | anu | pūrvīḥ | kṛṣṇāsu | agne | aruṣaḥ | vi | bhāhi | vaso iti | neṣi | ca | parṣi | ca | ati | aṃhaḥ | kṛdhi | naḥ | rāye | uśijaḥ | yaviṣṭha