Sukta 3.15
त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः । जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥
त्वं नो॑ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः । जन्मे॑व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं॑ मे अग्ने त॒न्वा॑ सुजात ॥
tváṃ no asyā́ uṣásaḥ vyùṣṭau tváṃ sū́ra údite bodhi gopā́ḥ | jánmeva nítyaṃ tánayaṃ juṣasva stómaṃ me agne tanvā̀ sujāta ||
At the breaking forth of this Dawn, be for us the guardian; at the rising of the Sun, awaken as our protector. As a father delights in his child always, accept my hymn, O Agni, with thy whole being, O well-born Flame.
त्वम् । नः॒ । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टौ । त्वम् । सूरे॑ । उत्ऽइ॑ते । बो॒धि॒ । गो॒पाः । जन्म॑ऽइव । नित्य॑म् । तन॑यम् । जु॒ष॒स्व॒ । स्तोम॑म् । मे॒ । अ॒ग्ने॒ । त॒न्वा॑ । सु॒ऽजा॒त॒ ॥त्वम् । नः । अस्याः । उषसः । विउष्टौ । त्वम् । सूरे । उत्इते । बोधि । गोपाः । जन्मइव । नित्यम् । तनयम् । जुषस्व । स्तोमम् । मे । अग्ने । तन्वा । सुजात ॥tvam | naḥ | asyāḥ | uṣasaḥ | vi-uṣṭau | tvam | sūre | ut-ite | bodhi | gopāḥ | janma-iva | nityam | tanayam | juṣasva | stomam | me | agne | tanvā | su-jāta