Sukta 3.15
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः । सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥
ví pā́jasā pṛthúnā śóśucāno bā́dhasva dvíṣo rákṣaso ámīvāḥ | su-śármaṇo bṛhatáḥ śármaṇi syām agnér aháṃ su-hávasyá pra-nī́tau ||
Blazing with wide might, repel the haters, the rakṣasas, the forces of affliction. May we dwell in the protecting peace of the Vast; may I be in the leading guidance of Agni, the well-invoked.
वि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः । सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥वि । पाजसा । पृथुना । शोशुचानः । बाधस्व । द्विषः । रक्षसः । अमीवाः । सुशर्मणः । बृहतः । शर्मणि । स्याम् । अग्नेः । अहम् । सुहवस्य । प्रनीतौ ॥vi | pājasā | pṛthunā | śośucānaḥ | bādhasva | dviṣaḥ | rakṣasaḥ | amīvāḥ | su-śarmaṇaḥ | bṛhataḥ | śarmaṇi | syām | agneḥ | aham | su-havasya | pra-nītau