Sukta 3.14
द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ । यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥
द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ । यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥
dráv atāṃ ta uṣásā vājáyantī agne vā́tasya pathyā́bhir áccha | yát sīm añjánti pū́rvyaṃ havírbhir ā́ vandhúreva tasthatúr duroṇé ||
Let Dawn and the energising Power hasten to thee, O Agni, along the paths of the Life-breath; when they anoint thee, the ancient one, with the offerings, they take their stand in the home like yoked steeds at the car.
द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ । यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥द्रवताम् । ते । उषसा । वाजयन्ती इति । अग्ने । वातस्य । पथ्याभिः । अच्छ । यत् । सीम् । अञ्जन्ति । पूर्व्यम् । हविःभिः । आ । वन्धुराइव । तस्थतुः । दुरोणे ॥dravatām | te | uṣasā | vājayantī iti | agne | vātasya | pathyābhiḥ | accha | yat | sīm | añjanti | pūrvyam | haviḥ-bhiḥ | ā | vandhurāiva | tasthatuḥ | duroṇe