Sukta 3.14
अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः । विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥
अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः । वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥
ayā́mi te náma-uktiṃ juṣasva ṛtā́vaḥ túbhyaṃ cétate sahasvaḥ | vidvā́n ā́ vakṣi vidúṣo ní ṣatsi mádhya ā́ barhír ūtáye yajatra ||
I bring to thee the word of homage; accept it, O power of the Truth—toward thee the will aspires, O mighty one. Knowing, bring the knowers; take thy seat in the midst upon the sacred grass for our help, O adorable.
अया॑मि । ते॒ । नमः॑ऽउक्ति॑म् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ । वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । ष॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥अयामि । ते । नमःउक्तिम् । जुषस्व । ऋतवः । तुभ्यम् । चेतते । सहस्वः । विद्वान् । आ । वक्षि । विदुषः । नि । षत्सि । मध्ये । आ । बर्हिः । ऊतये । यजत्र ॥ayāmi | te | namaḥ-uktim | juṣasva | ṛta-vaḥ | tubhyam | cetate | sahasvaḥ | vidvān | ā | vakṣi | viduṣaḥ | ni | ṣatsi | madhye | ā | barhiḥ | ūtaye | yajatra