Sukta 3.14
मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् । यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्त्सूर्यो नॄन् ॥
मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुत॑: सु॒म्नम॑र्चन् । यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थय॒न्त्सूर्यो॒ नॄन् ॥
mitráś ca túbhyaṃ váruṇaḥ sahasvo’gne víśve marútaḥ sumnám arcan | yác chóc iṣā sahasas-putra tíṣṭhā abhí kṣitī́ḥ pratháyan sū́ryo nṝ́n ||
Mitra and Varuṇa, and all the Maruts, sing to thee the grace, O Agni the mighty. When with thy flame, O son of Force, thou standest spreading out the worlds of our habitation, like the Sun widening men into their full stature.
मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् । यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् । यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन् ॥mitraḥ | ca | tubhyam | varuṇaḥ | sahasvaḥ | agne | viśve | marutaḥ | sumnam | arcan | yat | śociṣā | sahasaḥ | putra | tiṣṭhāḥ | abhi | kṣitīḥ | prathayan | sūryaḥ | nṝn