Sukta 3.14
आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः । विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥
आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑म॒: स वे॒धाः । वि॒द्युद्र॑थ॒: सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥
ā hótā mandró vidáthāny asthāt satyó yajvā́ kavítamaḥ sá vedhā́ḥ | vidyúd-rathaḥ sáhasas-putró agníḥ śocíṣ-keśaḥ pṛthivyā́ṃ pā́jo aśret ||
The glad Flame, the Hotṛ, has taken his stand in the gatherings—true, a sacrificer, the most seer-wise, the knower of right workings. Agni, son of Force, whose car is lightning, whose hair is flame, has extended his might upon the earth.
आ । होता॑ । म॒न्द्रः । व॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः । वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥आ । होता । मन्द्रः । वदथानि । अस्थात् । सत्यः । यज्वा । कवितमः । सः । वेधाः । विद्युत्रथः । सहसः । पुत्रः । अग्निः । शोचिःकेशः । पृथिव्याम् । पाजः । अश्रेत् ॥ā | hotā | mandraḥ | vadathāni | asthāt | satyaḥ | yajvā | kavi-tamaḥ | saḥ | vedhāḥ | vidyut-rathaḥ | sahasaḥ | putraḥ | agniḥ | śociḥ-keśaḥ | pṛthivyām | pājaḥ | aśret