Sukta 3.13
उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः । शं न॑: शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥
utá no bráhman aviṣa uktheṣú deva-hūtámaḥ | śáṃ naḥ śocā marúd-vṛdho ’gne sahasra-sā́tamaḥ ||
And protect our mantric word, O Agni, most powerful in calling the gods in our hymns. Shine for our peace; O increaser of the Maruts, O winner of a thousand gains, widen in us the victorious flame.
उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः । शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देवहूतमः । शम् । नः । शोच । मरुत्वृधः । अग्ने । सहस्रसातमः ॥uta | naḥ | brahman | aviṣaḥ | uktheṣu | deva-hūtamaḥ | śam | naḥ | śoca | marut-vṛdhaḥ | agne | sahasra-sātamaḥ