Sukta 3.13
दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः । ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥
दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभि॑: । ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥
dīdivā́ṃsam apū́rvyaṃ vásvībhiḥ asya dhītíbhiḥ | ṛkvā́ṇo agním indhate hótāraṃ viśpátiṃ viśā́m ||
The singers kindle Agni, the ever-shining and unaging, with rich inspirations; they awaken him as the priest of offering and as the lord of the peoples within the ordered life.
दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ । ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥दीदिवांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीतिभिः । ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥dīdi-vāṃsam | apūrvyam | vasvībhiḥ | asya | dhīti-bhiḥ | ṛkvaaṇaḥ | agnim | indhate | hotāram | viśpatim | viśām