Sukta 3.13
प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥
प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै । गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥
prá vo devā́yāgnáye bárhiṣṭham arcā́smai | gámad devébhir ā́ sá no yájiṣṭho bárhir ā́ sadat ||
Bring forward your highest hymn to Agni the Divine; sing it for him. May he come here with the gods, and may he, the most perfect in sacrifice, take his seat upon the sacred wideness (barhis) within us.
प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ । गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै । गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥pra | vaḥ | devāya | agnaye | barhiṣṭham | arca | asmai | gamat | devebhiḥ | ā | saḥ | naḥ | yajiṣṭhaḥ | barhiḥ | ā | sadat