Sukta 2.9
उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म । कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥
उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म । कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥
ubháyaṃ te ná kṣīyate vasavyàṃ divé-dive jā́yamānasya dasma | kṛ́dhi kṣumántaṃ jaritā́ram agne kṛ́dhi pátiṃ svapátyasya rāyáḥ ||
Twofold is your wealth that does not diminish, day by day as you are ever being born, O wonder-worker. Make the singer full of power, O Agni; make him lord of the riches that bring noble offspring and right mastery.
उ॒भय॑म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य॑म् । दि॒वेऽदि॑वे॒ । जाय॑मानस्य । द॒स्म॒ । कृ॒धि । क्षु॒ऽमन्त॑म् । जरि॒तार॑म् । अ॒ग्ने॒ । कृ॒धि । पति॑म् । सु॒ऽअ॒प॒त्यस्य॑ । रा॒यः ॥उभयम् । ते । न । क्षीयते । वसव्यम् । दिवेदिवे । जायमानस्य । दस्म । कृधि । क्षुमन्तम् । जरितारम् । अग्ने । कृधि । पतिम् । सुअपत्यस्य । रायः ॥ubhayam | te | na | kṣīyate | vasavyam | dive--dive | jāyamānasya | dasma | kṛdhi | kṣu-mantam | jaritāram | agne | kṛdhi | patim | su-apatyasya | rāyaḥ