Sukta 2.9
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥
सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त न॑: पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥
sainānī́kena suvidátró asmè yaṣṭā́ devā́ṃ ā́yajiṣṭhaḥ svastí | adábhdo gopā́ utá naḥ paraḥ-pā́ ágne dyumád utá revád didīhi ||
With your leading front, O well-finding one, be for us the sacrificer who best worships the gods for our well-being. Unharmed, be the guardian of the lights and our far-protector; O Agni, shine upon us with luminous force and with fullness.
सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति । अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥सः । एना । अनीकेन । सुविदत्रः । अस्मे इति । यष्टा । देवान् । आयजिष्ठः । स्वस्ति । अदब्धः । गोपाः । उत । नः । परःपाः । अग्ने । द्युमत् । उत । रेवत् । दिदीहि ॥saḥ | enā | anīkena | su-vidatraḥ | asme iti | yaṣṭā | devān | āyajiṣṭhaḥ | svasti | adabdhaḥ | gopāḥ | uta | naḥ | paraḥ-pāḥ | agne | dyu-mat | uta | revat | didīhi