Sukta 2.9
अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः । त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥
अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राध॑: । त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥
ágne yájasva havíṣā yájīyāñ chrúṣṭī déṣṇam abhí gṛṇīhi rā́dhaḥ | tváṃ hí ási rayi-pátī rayīṇā́ṃ tváṃ śukrásya vácaso manótā ||
O Agni, sacrifice with the offering, O most worthy of sacrifice; accept with attentive hearing the gift, and affirm the plenitude. For you are the lord of the riches: you are the thinker and fulfiller of the luminous word.
अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ । त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥अग्ने । यजस्व । हविषा । यजीयान् । श्रुष्टी । देष्णम् । अभि । गृणीहि । राधः । त्वम् । हि । असि । रयिपतिः । रयीणाम् । त्वम् । शुक्रस्य । वचसः । मनोता ॥agne | yajasva | haviṣā | yajīyān | śruṣṭī | deṣṇam | abhi | gṛṇīhi | rādhaḥ | tvam | h i | asi | rayi-patiḥ | rayīṇām | tvam | śukrasya | vacasaḥ | manotā