Sukta 2.7
त्वं नो असि भारताग्ने वशाभिरुक्षभिः । अष्टापदीभिराहुतः ॥
त्वं नो॑ असि भार॒ताग्ने॑ व॒शाभि॑रु॒क्षभि॑: । अ॒ष्टाप॑दीभि॒राहु॑तः ॥
tváṃ no asi bhāratā́gne vaśā́bhir ukṣábhíḥ | aṣṭā́padībhir ā́hutaḥ ||
You are ours, O Agni of the Bharatas; by the yielding powers and the forceful energies you are kindled—by the many-stepping rhythms that carry the offering forward.
त्वम् । नः॒ । अ॒सि॒ । भा॒र॒त॒ । अग्ने॑ । व॒शाभिः॑ । उ॒क्षऽभिः॑ । अ॒ष्टाऽप॑दीभिः । आऽहु॑तः ॥त्वम् । नः । असि । भारत । अग्ने । वशाभिः । उक्षभिः । अष्टापदीभिः । आहुतः ॥tvam | naḥ | asi | bhārata | agne | vaśābhiḥ | ukṣa-bhiḥ | aṣṭāpadībhiḥ | āhutaḥ