Sukta 2.7
शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे । त्वं घृतेभिराहुतः ॥
शुचि॑: पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे । त्वं घृ॒तेभि॒राहु॑तः ॥
śúciḥ pāvaka vándyo ’gne bṛhád ví rocase | tváṃ ghṛtébhir ā́hutaḥ ||
Pure and clarifying, worthy of adoration, O Agni, you blaze forth in the Vast; you are kindled and increased by the ghee—by the luminous essence offered within.
शुचिः॑ । पा॒व॒क॒ । वन्द्यः॑ । अग्ने॑ । बृ॒हत् । वि । रो॒च॒से॒ । त्वम् । घृ॒तेभिः॑ । आऽहु॑तः ॥शुचिः । पावक । वन्द्यः । अग्ने । बृहत् । वि । रोचसे । त्वम् । घृतेभिः । आहुतः ॥śuciḥ | pāvaka | vandyaḥ | agne | bṛhat | vi | rocase | tvam | ghṛtebhiḥ | āhutaḥ