Sukta 2.7
मा नो अरातिरीशत देवस्य मर्त्यस्य च । पर्षि तस्या उत द्विषः ॥
मा नो॒ अरा॑तिरीशत दे॒वस्य॒ मर्त्य॑स्य च । पर्षि॒ तस्या॑ उ॒त द्वि॒षः ॥
mā́ no arā́tir īśata devásya mártyasya ca | párṣi tásyā uta dvíṣaḥ ||
Let not the hostile power of want and wrong mastery rule over us—whether from godly forces or from mortal beings; cross us beyond that, and beyond the haters as well.
मा । नः॒ । अरा॑तिः । ई॒श॒त॒ । दे॒वस्य॑ । मर्त्य॑स्य । च॒ । पर्षि॑ । तस्याः॑ । उ॒त । द्वि॒षः ॥मा । नः । अरातिः । ईशत । देवस्य । मर्त्यस्य । च । पर्षि । तस्याः । उत । द्विषः ॥mā | naḥ | arātiḥ | īśata | devasya | martyasya | ca | parṣi | tasyāḥ | uta | dviṣaḥ