Sukta 2.6
तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः । सपर्येम सपर्यवः ॥
तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः । स॒प॒र्येम॑ सप॒र्यव॑: ॥
táṃ tvā gīrbhír gírvaṇasaṃ draviṇasyúṃ draviṇódaḥ | saparyéma saparyávaḥ ||
You—delighting in the inspired words, desiring the true riches and their giver—we would worship with our utterances, we who are eager in worship.
तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ । स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥तम् । त्वा । गीःभिः । गिर्वणसम् । द्रविणस्युम् । द्रविणःदः । सपर्येम । सपर्यवः ॥tam | tvā | gīḥ-bhiḥ | girvaṇasam | draviṇasyum | draviṇaḥ-daḥ | saparyema | saparyavaḥ