Sukta 2.41
ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् । धिष्ण्या वरिवोविदम् ॥
ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् । धिष्ण्या॑ वरिवो॒विद॑म् ॥
tā́ na ā́ vóḷham aśvinā rayíṃ piśáṅga-sandṛśam | dhiṣṇyā varivovídam ||
Bring to us, O Aśvins, that plenitude of being—bright to behold—O lords of luminous skill, finders of wide spaces in our nature.
ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् । धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥ता । नः । आ । वोळ्हम् । अश्विना । रयिम् । पिशङ्गसन्दृशम् । धिष्ण्या । वरिवःविदम् ॥tā | naḥ | ā | voḷham | aśvinā | rayim | piśaṅga-sandṛśam | dhiṣṇyā | varivaḥ-vidam