Sukta 2.41
न यत्परो नान्तर आदधर्षद्वृषण्वसू । दुःशंसो मर्त्यो रिपुः ॥
न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू । दु॒:शंसो॒ मर्त्यो॑ रि॒पुः ॥
ná yát paráḥ nā́ntara ādadharṣad vṛṣaṇvasū́ | duḥśáṃso mártyo ripúḥ ||
No enemy—neither from beyond nor from within—can overbear you, O mighty givers of force; the ill-speaking mortal adversary cannot prevail.
न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥न । यत् । परः । न । अन्तरः । आदधर्षत् । वृषण्वसू इति वृषण्वसू । दुःशंसः । मर्त्यः । रिपुः ॥na | yat | paraḥ | na | antaraḥ | ādadharṣat | vṛṣaṇvasūitivṛṣaṇ-vasū | duḥ-śaṃsaḥ | martyaḥ | ripuḥ