Sukta 2.41
गोमदू षु नासत्याश्वावद्यातमश्विना । वर्ती रुद्रा नृपाय्यम् ॥
गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना । व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥
gómat ū ṣú nāsatyā́śvāvadyātam aśvinā | vartī́ rudrā nṛpā́yyam ||
O Nāsatyas, O Aśvins, come with the riches of luminous knowledge and with the powers of swift energy; bring also the protecting course, O Rudras, that guards the human journey.
गोऽम॑त् । ऊँ॒ इति॑ । सु । ना॒स॒त्या॒ । अस्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ । व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥गोमत् । ऊँ इति । सु । नासत्या । अस्ववत् । यातम् । अश्विना । वर्तिः । रुद्रा । नृपाय्यम् ॥go--mat | oṃ iti | su | nāsatyā | asva-vat | yātam | aśvinā | vartiḥ | rudrā | nṛ-pāyyam