Sukta 2.41
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेदिह श्रुतं हवम् ॥
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑तं॒ हव॑म् ॥
ayáṃ vā́ṃ mitrā́varuṇā sutáḥ sóma ṛtāvṛ́dhā | máméd ihá śrútaṃ hávam ||
This Soma, pressed out for you, O Mitra and Varuṇa, increasers of the Truth-Order—hear here and now my call: let my aspiration be received.
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ । मम॑ । इत् । इ॒ह । श्र॒त॒म् । हव॑म् ॥अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋतवृधा । मम । इत् । इह । श्रतम् । हवम् ॥ayam | vām | mitrāvaruṇā | sutaḥ | somaḥ | ṛta-vṛdhā | mama | it | iha | śratam | havam