Sukta 2.41
शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः । आ यातं पिबतं नरा ॥
शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः । आ या॑तं॒ पिब॑तं नरा ॥
śukrásyādýá gávāśira índravāyū niyútvataḥ | ā́ yātaṃ píbatam narā ||
Today, of the bright Soma mixed with the cow’s essence, O Indra and Vāyu with your yoked teams—come; drink, O two heroic powers, so the illumined force and the life-breath may act together in us.
शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः । आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥शुक्रस्य । अद्य । गोआशिरः । इन्द्रवायू इति । नियुत्वतः । आ । यातम् । पिबतम् । नरा ॥śukrasya | adya | go--āśiraḥ | indravāyūiti | niyutvataḥ | ā | yātam | pibatam | narā