Sukta 2.41
राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे । सहस्रस्थूण आसाते ॥
राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे । स॒हस्र॑स्थूण आसाते ॥
rājānāv anabhí-druhā dhruvé sádasy uttamé | sahásra-sthūṇā āsāte ||
The two kings, unbetraying, sit firm in the highest seat of the assembly, upheld by a thousand pillars—powers of stable sovereignty in the soul’s council.
राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे । स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥राजानौ । अनभिद्रुहा । ध्रुवे । सदसि । उत्तमे । सहस्रस्थूणे । आसाते इति ॥rājānau | anabhi-druhā | dhruve | sadasi | ut-tame | sahasra-sthūṇe | āsāteiti