Sukta 2.41
नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते । गन्तासि सुन्वतो गृहम् ॥
नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते । गन्ता॑सि सुन्व॒तो गृ॒हम् ॥
niyútvān vāyávā gahy ayáṃ śukró ayā́mi te | gántāsi sunvató gṛhám ||
Come, O Vāyu, with your yoked teams; this bright Soma I extend to you. You will come to the house of the presser—into the prepared inner dwelling of the offering.
नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ । गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥नियुत्वान् । वायो इति । आ । गहि । अयम् । शुक्रः । अयामि । ते । गन्ता । असि । सुन्वतः । गृहम् ॥niyutvān | vāyo iti | ā | gahi | ayam | śukraḥ | ayāmi | te | gantā | asi | sunvataḥ | gṛham