Sukta 2.41
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि । नियुत्वान्त्सोमपीतये ॥
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि । नि॒युत्वा॒न्त्सोम॑पीतये ॥
vā́yo yé te sahasríṇo ráthāsas tébhir ā́ gahi | niyútvānts sómapītaye ||
O Vāyu, with those thousand-powered chariots of yours come here, yoked with your teams, for the drinking of Soma—so the life-breath in us may receive the illumining delight.
वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि । नियुत्वान् । सोमपीतये ॥vāyo iti | ye | te | sahasriṇaḥ | rathāsaḥ | tebhiḥ | ā | gahi | niyutvān | soma-pītaye