Sukta 2.41
इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् । भद्रं भवाति नः पुरः ॥
इन्द्र॑श्च मृ॒ळया॑ति नो॒ न न॑: प॒श्चाद॒घं न॑शत् । भ॒द्रं भ॑वाति नः पु॒रः ॥
índraś ca mṛḷáyāti no ná naḥ paścā́d agháṃ naśat | bhadráṃ bhavāti naḥ púraḥ ||
May Indra also be gracious to us; let no evil overtake us from behind—let what is auspicious become our leader in front.
इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् । भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥इन्द्रः । च । मृळयाति । नः । न । नः । पश्चात् । अघम् । नशत् । भद्रम् । भवाति । नः । पुरः ॥indraḥ | ca | mṛḷayāti | naḥ | na | naḥ | paścāt | agham | naśat | bhadram | bhavāti | naḥ | puraḥ