Sukta 2.41
इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् । जेता शत्रून्विचर्षणिः ॥
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् । जेता॒ शत्रू॒न्विच॑र्षणिः ॥
índra ā́śābhyaḥ pári sárvābhyo abháyaṃ karat | jétā śátrūn vícarṣaṇiḥ ||
May Indra make fearlessness all around us from every side; the wide-ranging one becomes the conqueror of the hostile powers.
इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् । जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥इन्द्रः । आशाभ्यः । परि । सर्वाभ्यः । अभयम् । करत् । जेता । शत्रून् । विचर्षणिः ॥indraḥ | āśābhyaḥ | pari | sarvābhyaḥ | abhayam | karat | jetā | śatrūn | vi-caṣarṇiḥ