Sukta 2.40
विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति । सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वा॒: पृत॑ना जयेम ॥
víśvāny anyó bhúvanā jajā́na víśvam anyó abhicákṣāṇa eti | somā́pūṣaṇāv ávataṃ dhíyaṃ me yuvā́bhyāṃ víśvāḥ pṛ́tanā jayema ||
One of the two has brought forth all the worlds; the other moves beholding all. O Soma and Pūṣan, uphold my thought—by you two may we conquer all battles.
विश्वा॑नि । अ॒न्यः । भु॒व॒ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ । सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥विश्वानि । अन्यः । भुवना । जजान । विश्वम् । अन्यः । अभिचक्षाणः । एति । सोमापूषणौ । अवतम् । धियम् । मे । युवाभ्याम् । विश्वाः । पृतनाः । जयेम ॥viśvāni | anyaḥ | bhuvanā | jajāna | viśvam | anyaḥ | abhi-cakṣāṇaḥ | eti | somāpūṣaṇau | avatam | dhiyam | me | yuvābhyām | viśvāḥ | pṛtanāḥ | jayema