Sukta 2.40
दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे । तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥
दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे । ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥
divy ànyaḥ sádanaṃ cakra uccā́ pṛthivyā́m anyó ádhy antárikṣe | tā́v asmábhyaṃ puruvā́raṃ purukṣúṃ rāyáspoṣaṃ ví ṣyatāṃ nā́bhim asmé ||
One has made his seat aloft in heaven; the other upon earth and in the mid-space. May those two spread for us the navel-center of increase—plenitude of riches, abundant in desirable powers and fruitful in many growths—within us.
दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे । तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥दिवि । अन्यः । सदनम् । चक्रे । उच्चा । पृथिव्याम् । अन्यः । अधि । अन्तरिक्षे । तौ । अस्मभ्यम् । पुरुवारम् । पुरुक्षुम् । रायः । पोषम् । वि । स्यताम् । नाभिम् । अस्मे इति ॥divi | anyaḥ | sadanam | cakre | uccā | pṛthivyām | anyaḥ | adhi | antarikṣe | tau | asmabhyam | puru-vāram | puru-kṣum | rāyaḥ | poṣam | vi | syatām | nābhim | asme iti