Sukta 2.40
सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् । विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥
somā́pūṣaṇā rájaso vimā́naṃ saptácakraṃ rátham áviśvaminvam | viṣūvṛ́taṃ mánasā yujyámānaṃ táṃ jinvatho vṛṣaṇā páñcaraśmim ||
O Soma and Pūṣan, you impel the car that measures the mid-world, seven-wheeled, moving all; wide-turning, yoked by the mind—this five-reined force you set in motion, O strong ones.
सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् । वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥सोमापूषणा । रजसः । विमानम् । सप्तचक्रम् । रथम् । अविश्वमिन्वम् । विषुवृतम् । मनसा । युज्यमानम् । तम् । जिन्वथः । वृषणा । पञ्चरश्मिम् ॥somāpūṣaṇā | rajasaḥ | vi-mānam | sapta-cakram | ratham | aviśva-minvam | viṣu-vṛtam | manasā | yujyamānam | tam | jinvathaḥ | vṛṣaṇā | pañca-raśmim