Sukta 2.40
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा । आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥
इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्र॑: प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥
imáu deváu jā́yamānau juṣante imáu tamā́ṃsi gūhatām ájuṣṭā | ābhyā́m índraḥ pakvám āmā́sv antáḥ somāpūṣábhyāṃ janad usríyāsu ||
These two gods, coming to birth, take delight; these two conceal the darknesses that consent not. By these two Indra brings the ripened within the unripe; through Soma and Pūṣan he generates the shining herds of light.
इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा । आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मापू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥इमौ । देवौ । जायमानौ । जुषन्त । इमौ । तमांसि । गूहताम् । अजुष्टा । आभ्याम् । इन्द्रः । पक्वम् । आमासु । अन्तरिति । सोमापूषभ्याम् । जनत् । उस्रियासु ॥imau | devau | jāyamānau | juṣanta | imau | tamāṃsi | gūhatām | ajuṣṭā | ābhyām | indraḥ | pakvam | āmāsu | antariti | somāpūṣa-bhyām | janat | usriyāsu