Sukta 2.40
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥
सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
somā́pūṣaṇā jánanā rayīṇā́ṃ jánanā divó jánanā pṛthivyā́ḥ | jātáu víśvasya bhúvanasya gopā́u devā́ akṛṇvann amṛ́tasya nā́bhim ||
O Soma and Pūṣan, begetters of plenitudes, begetters of heaven, begetters of earth—born as the two guardians of all becoming, the gods made you the navel-center of immortality.
सोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः । जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥सोमापूषणा । जनना । रयीणाम् । जनना । दिवः । जनना । पृथिव्याः । जातौ । विश्वस्य । भुवनस्य । गोपौ । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥somāpūṣaṇā | jananā | rayīṇām | jananā | divaḥ | jananā | pṛthivyāḥ | jātau | viśvasya | bhuvanasya | gopau | devāḥ | akṛṇvan | amṛtasya | nābhim