Sukta 2.39
एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् । तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥
ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् । तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
etā́ni vām aśvinā vardhánāni bráhma stómaṃ gṛtsamadā́so akran | tā́ni narā jujuṣāṇópa yātaṃ bṛhád vadema vidáthe suvī́rāḥ ||
These are your increasings, O Ashvins—this inspired word and hymn that the Gṛtsamada seers have fashioned. Accept them, O two heroic powers, and come near; may we speak the Vast in the assembly, rich in strong and luminous offspring of the soul.
ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् । तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥एतानि । वाम् । अश्विना । वर्धनानि । ब्रह्म । स्तोमम् । गृत्समदासः । अक्रन् । तानि । नरा । जुजुषाणा । उप । यातम् । बृहत् । वदेम । विदथे । सुवीराः ॥etāni | vām | aśvinā | vardhanāni | brahma | stomam | gṛtsa-madāsaḥ | akran | tāni | narā | jujuṣāṇā | upa | yātam | bṛhat | vadema | vidathe | su-vīrāḥ