Sukta 2.39
हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि । इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥
हस्ते॑व श॒क्तिम॒भि सं॑द॒दी न॒: क्षामे॑व न॒: सम॑जतं॒ रजां॑सि । इ॒मा गिरो॑ अश्विना युष्म॒यन्ती॒: क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥
hásteva śaktím abhí saṃ-dadī́ naḥ kṣā́meva naḥ sám ajataṃ rájāṃsi | imā́ gíro aśvinā yuṣma-yántīḥ kṣṇótreṇaiva svadhítim sáṃ śiśītam ||
As with a hand, place strength into us; as with firm ground, set our spaces in order. These utterances that yearn toward you, O Aśvins—sharpen them together like an axe with a whetstone.
हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि । इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥हस्ताइव । शक्तिम् । अभि । सन्ददी इति सम्ददी । नः । क्षामाइव । नः । सम् । अजतम् । रजांसि । इमाः । गिरः । अश्विना । युष्मयन्तीः । क्ष्णोत्रेणइव । स्वधितिम् । सम् । शिशीतम् ॥hastāiva | śaktim | abhi | sandadī itisam-dadī | naḥ | kṣāmāiva | naḥ | sam | ajatam | rajāṃsi | imāḥ | giraḥ | aśv inā | yuṣma-yantīḥ | kṣṇotreṇa-iva | sva-dhitim | sam | śiśītam