Sukta 2.39
ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः । नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥
ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः । नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥
óṣṭhāviva mádhvā āsné vádantā stánāviva pipyataṃ jīváse naḥ | nā́sēva nas tanvò rakṣitā́rā karṇā́viva su-śrutā́ bhūtam asmé ||
Like two lips speaking honey in the mouth, be for us words of sweetness; like two breasts, nourish us for life. Like two nostrils, be protectors of our embodied nature; like two ears, be for us good-hearers—receiving and granting true hearing.
ओष्ठौ॑ऽइव । मधु॑ । आ॒स्ने । वद॑न्ता । स्तनौ॑ऽइव । पि॒प्य॒त॒म् । जी॒वसे॑ । नः॒ । नासा॑ऽइव । नः॒ । त॒न्वः॑ । र॒क्षि॒तारा॑ । कर्णौ॑ऽइव । सु॒ऽश्रुता॑ । भू॒त॒म् । अ॒स्मे इति॑ ॥ओष्ठौइव । मधु । आस्ने । वदन्ता । स्तनौइव । पिप्यतम् । जीवसे । नः । नासाइव । नः । तन्वः । रक्षितारा । कर्णौइव । सुश्रुता । भूतम् । अस्मे इति ॥oṣṭhau-iva | madhu | āsne | vadantā | stanau-iva | pipyatam | jīvase | naḥ | nāsāiva | naḥ | tanvaḥ | rakṣitārā | karṇau-iva | su-śrutā | bhūtam | asme iti